Nojoto: Largest Storytelling Platform

विश्वविद्यालयस्यास्य स्थापको मदनः सुधीः। पंडितप्र

विश्वविद्यालयस्यास्य स्थापको मदनः सुधीः।
 पंडितप्रवरो धीमान् मोहनो व्रजनन्दनः।।
 ख्यातो "महामना" नाम्ना मालवीयो हि भूतले।
 संपादको$धिवक्ता च आसीत् यः कुशलः खलु।।
 परहिताय यो जातो भिक्षुको जगतीतले ।
व्रजनाथस्य सूनुर्हि मूनादेव्यास्तुगर्भजः।।
 अध्यापने यथा दक्षः प्रवीणो भाषणे तथा ।
भाषयोःसंस्कृताङ्ग्लयोः  पटुता यस्य श्रूयते।। 
 श्रीमद् भागवतस्य हि गीतायाश्च उपासकः।
 आसीत् अतिविनीतो यः शिक्षायास्तु प्रचारकः।।
 अमितकीर्तिसंपन्नो राजतु मदनो किल ।
दासो नारायणस्य तु राष्ट्रपरमसेवकः।।
 प्रकाशयतु मे हृदि ज्ञान सुष्ठु   सुनिर्मलम्।
 नारायणे भवेत् रतिः प्रीतिरध्यापने खलु।।
 अन्वर्थतामहं काङ्क्ष्ये  विद्यार्थी अमितः सुधीः।
 देशभक्तिंं तथा कीर्तिंं पित्रोः सेवांं सुशोभनाम्।। #मालवीयाष्टकम्#